11 Sep UPSC Civil Services (Main) Examination 2026 — Sanskrit (Compulsory): Question Paper | Plutus IAS
The questions below are from Sanskrit (Compulsory) of UPSC Civil Services (Main) Examination 2026 (held 2026-08-29) — the actual paper, which is public government content. This page carries the questions for reference and revision; model answers for this paper are not published here.
Official paper (PDF): upsc.gov.in.
- निम्नलिखितेषु विषयेषु कम्प्येकं विषयमवलम्ब्य षट्शतशब्दैः (600 परिमितशब्दैः) निबन्धो लेखनीयः – (a) भारतबोधस्य अवधारणा अस्माकं भाविकालश्च (b) अङ्कीययुगे जनानां कर्तव्यानि (c) भारते अन्तरिक्षानुसन्धानं मंगलयानञ्च (d) स्वास्थ्यसेवाया उपलब्धता गुणवत्ता च
- अधोलिखितगद्यांशस्य आंग्लभाषया अनुवादः करणीयः – भारतीयनाविकाः पोतयानसंचालने स्वकीय-कौशलगरिमणा प्राचीनकालादेव जगति प्रसिद्धाः आसन् । अद्यतः पञ्चसहस्राणि वर्षाणि प्राक् भारतीयनाविकाः समुद्रे नावसंचालनम् आरब्धवन्तः । तदा समुद्रयात्रायां प्रयुज्यमानाः स्वल्पाः केचनयन्त्राः आसन् । अद्यत्वे वर्तमानकालीनि संस्कृतानि समुन्नतानि उत्कृष्टानि यन्त्रोपकरणानि तदा न उपलब्धानि आसन् । परन्तु प्राचीनकालीकानां नाविकानां ज्ञानेन्द्रियाणि मन्ये अतीव तेजोद्दीप्तानि आसन् । तेषां वातावरणस्य ज्ञानं सम्यक् आसीत् । ते ग्रह-नक्षत्राणां गमनविषये अपि निपुणाः आसन् । वातप्रवाहस्य ज्ञानमपि सम्यक् आसीत्, ते समुद्रजलानां वर्णान् दृष्ट्वा समुद्राणां गभीरतां प्रकाशयितुं समर्था आसन् । ते सामुद्रिकं जन्तुजातं तेषां गमनागमनं च संलक्ष्य समुद्रात् कियदूरे स्थलभागः अस्ति, स स्थलभागस्य कः देशः, सः स्थलभागः कीदृशः, तदपि वक्तुं समर्थाः आसन् । पुराकाले भारते न कोऽपि समुद्रविज्ञानविद्यालयः आसीत् । अत एव यदेव प्रशिक्षणं ते प्राप्तवन्तः तत् केवलं अनुभवानां पाठशालायां परीक्षणेन तथा पुनः "प्रमाद-चेष्टा" (error-try) इति मार्गेण एव । कदाचित् दुर्घटनादिकमपि संघटितम् आसीत् । अपि च तेषां साहसः आत्मविश्वासश्च तान् पुनः-पुनः समुद्रयात्रायां गन्तुं प्रेरितवन्तः । यद् बलेन पराक्रान्ताः ते नाविकाः पश्चिमे अरबसागरम् उत्तीर्य अफ्रीकादेशस्य पूर्वोपकुले तथा बगोपसागरं उत्तीर्य पूर्वस्यां दिशि सुदृरे तथा इण्डोनेशिया-कम्बोडिया-उन्नाम-बोर्नियो-सेलीबीज-इत्यादीन् देशान् च गतवन्तः । समुद्रविद्याया प्रशिक्षणं भारतवर्षे 1920 तमे ख्रिष्ट्याब्दस्य प्रारम्भिकवर्षेषु आरब्धम् अभवत् । स्वाधीनतायाः पश्चात् भारतवर्षे परिवर्तनस्य सुखदवातप्रवाहः प्रारब्ध अभवत् । भारतस्य गौरवशाली पोतयानगमनागमनपरम्परायाः यः सूर्यः कियत्-शताब्दीपूर्वे अस्तंगतः एव अभवत् । सः पुनश्च उदितः सन् स्वप्रभाभिः समुद्भासितः संजातः । ततः प्रभृतिः इदानीम् अपि भारतीय-पोतगमनागमनव्यवस्था सम्यक् सर्वदिक्षुः सुष्ठु प्रचलिता अस्ति ।
- अधस्तनगद्यांशस्य संस्कृतभाषानुवादः करणीयः – Orientation for entrepreneurship has to start right from the schools. In schools, teachers need to highlight the role of entrepreneurship in national development. During college, students must be exposed to business development opportunities and must be trained towards the creation of new enterprises. Parents should encourage their children to take up new ventures after their education. We should cultivate a mindset that 'Idea is wealth'. The government must create a facilitating environment for the provision of venture capital for innovative ideas without collateral security. Universities and engineering and management institutions should work with banks and other funding agencies towards simplifying procedures for setting up businesses and working with entrepreneurs till the project becomes self-sustaining and viable. Procedures in government should facilitate the spotting and recognition of new Indian talent in entrepreneurship by creating a level playing field for healthy competition. Citizens who can afford it should turn themselves into angel investors or start venture capital organizations to fund such new ventures. Big and small industries need to have an open mind in order to encourage and partner with young entrepreneurs.
- (a) अधोलिखितानां स्वरचितेषु वाक्येषु प्रयोगः कार्यः – 2×5=10 | (i) | उपरि | 2 | | — | — | — | | (ii) | श्वः | 2 | | (iii) | कदा | 2 | | (iv) | सार्धम् | 2 | | (v) | चेत् | 2 | (b) पदसाधनं क्रियताम् – 1×10=10 | (i) | गुणिन् + षष्ठी, बहुवचनम् | 1 | | — | — | — | | (ii) | लक्ष्मी + प्रथमा, एकवचनम् | 1 | | (iii) | विपद् + सप्तमी, एकवचनम् | 1 | | (iv) | अम्बु + द्वितीया, द्विवचनम् | 1 | | (v) | साधु + चतुर्थी, एकवचनम् | 1 | | (vi) | कृ + लङ्, प्रथमपुरुषे, बहुवचनम् | 1 | | (vii) | स्था + लोट्, उत्तमपुरुषे, एकवचनम् | 1 | | (viii) | सेव् + लट्, मध्यमपुरुषे, द्विवचनम् | 1 | | (ix) | वद् + लृट्, उत्तमपुरुषे, बहुवचनम् | 1 | | (x) | हस् + विधिलिङ्, प्रथमपुरुषे, बहुवचनम् | 1 | (c) समासो विधेयः समासनाम च लेखनीयम् : 2×5=10 | (i) | मक्षिकानाम् अभावः | 2 | | — | — | — | | (ii) | घन इव श्यामः | 2 | | (iii) | खञ्जश्च कुब्जश्चेति | 2 | | (iv) | मृग अङ्के यस्य सः | 2 | | (v) | गृहे तिष्ठति यः सः | 2 | Tamil Textbook (d) अधोलिखितानि वाक्यानि शुद्धीकरणीयानि : 2×5=10 – (i) पिता प्राते भ्रमणं करोति । 2 – (ii) स अस्मात् शतं धारयति । 2 – (iii) शिशुः शय्यायाम् अधिशेते । 2 – (iv) बालिका वृक्षे पुष्पाणि चिनोति । 2 – (v) बालकः भगवानं प्रणमति । 2
Questions reproduced from the official paper for study purposes; verify on the exam-conducting body’s official website.
- UPSC Civil Services (Main) Examination 2026 — Tamil (Compulsory): Question Paper | Plutus IAS - September 11, 2026
- UPSC Civil Services (Main) Examination 2026 — Sanskrit (Compulsory): Question Paper | Plutus IAS - September 11, 2026
- UPSC Civil Services (Main) Examination 2026 — Punjabi (Compulsory): Question Paper | Plutus IAS - September 11, 2026

No Comments